SriRamaNavami Vratakalpamu – Sanskrit
- Posted by Sri Kameswari Foundation
- Date April 7, 2024
- Comments 0 comment
श्रीरामनवमि व्रतकल्पं
आचम्य, प्राणानायम्य, मासपक्षाद्युल्लिख्य, श्रीपरमेश्वरप्रीत्यर्थं, मम समस्त–पापक्षयद्वारा श्रीरामप्रीतये रामनवमीव्रतांगत्वेन यथामिळितोपचारैः रामपूजां करिष्ये ॥
तत्रादौ निर्विघ्नपरिसमाप्त्यर्थं गणाधिपतिपूजां करिष्ये॥
पंचशब्दैः पुण्याहवाचनं, तथा राममन्त्रेण षडङ्गन्यासं कलशाद्यर्चनं च करिष्ये ॥
गणाधिपतिपूजां पुण्याहवाचनादि च कृत्वा, ततः फलपुष्पाक्षतसहितं जलपूर्णं ताम्रपात्रं गृहीत्वा, “उपोष्य नवमीं त्वद्य यामेष्वष्टसु राघव, तेन प्रीतो भव त्वं मे संसारात् त्राहि मां हरे” इति मन्त्रेण पात्रस्थं जलं क्षिपेत् ॥
ततः स्वशक्तितः हैमीं रामप्रतिमां कृत्वा, अग्न्युत्तारणपूर्वकं कपोलौ स्पृष्ट्वा मूल मन्त्रं प्रणवादिचतुर्थ्यन्तक–नाम रामाय देवत्वं संख्याय रामाय देवत्वं संख्याय स्वाहेति मस्त्रं पठन् प्राणप्रतिष्ठां कुर्यात् ॥
अथ ध्यानम् – कोमलाङ्गं विशालाक्षमिन्द्रनीलसमप्रभं,
दक्षिणाङ्गे दशरथं पुत्त्रावेक्षणतत्परम् ॥
वृष्ठतो लक्ष्मणं देवं सच्छत्रं कनकप्रभं,
पार्श्वे भरतशत्रुघ्नौ चामर व्यजनान्वितौ ॥
अग्रे౽व्यग्रं हनूमन्तं रामानुग्रहकांक्षिणम् ॥ इति ध्यायेत्
अथ आवाहनम् – आवाहयामि विश्वेशं जानकीवल्लभं प्रभुं,
कौसल्यातनयं विष्णुं श्रीरामं प्रकृतेः परम्॥
आवाहयामि
अथ सन्निधापनम् – श्रीरामागच्छ भगवन् रघुवीर सृपोत्तम,
जानक्या सह राजेंद्र सुस्थिरो भव सर्वदा ॥
रामचंद्र महेष्वास रावणान्तक राघव,
यावत्पूजां समाप्ये౽हं
तानत्त्वं सन्निधौ भव ॥
अथ सम्मुखीकरणम् – रघुनायक राजर्षे नमो राजीवलोचन,
रघुनंदन मे देव श्रीरामाभिसुभो भव ॥
अथ आसनम् – राजाधिराज राजेन्द्र रामचन्द्र महीपते,
रत्नसिंहासनं तुभ्यं दास्यामि स्वीकुरु प्रभो ॥
आसनं समर्पयामि
अथ पाद्यम् – त्रैलोक्यपावनानन्त नमस्ते रघुनायक,
पाद्यं गृहाण राजर्षे नमो राजीवलोचन ॥
पाद्यं समर्पयामि
अथ अर्घ्यम् – परिपूर्ण परानंद नमो रामाय वेधसे,
गृहाणार्घ्यं मया दत्तं कृष्ण विष्णो जनार्दन ॥
अर्घ्यं समर्पयामि
अथ आचमनीयम् – नम स्सत्याय शुद्धाय नित्याय ज्ञानरूपिणे,
गृहाणाचमनं नाथ सर्वलोकैकनायक ॥
आचमनीयं समर्पयामि
अथ स्नानम् – ब्रह्मांडोदर–मध्यस्थैः तीर्थैश्च रघुनंदन,
स्नापयाम्यहं भक्त्या त्वं गृहाण जनार्दन ॥
स्नानं समर्पयामि
अथ मधुपर्कम् – नमः श्री वासुदेवाय तत्त्वज्ञानस्वरूपिणे,
मधुपर्कं गृहाणेमं जानकीपतये नमः ॥
पंचामृतम् – आप्यायस्वेति पंचमन्त्रैः पंचामृतम् ॥
पंचामृतं मया नीतं पयो–दधि–घृतं–मधु–
शर्करासहितं चैव राम त्वं प्रतिगृह्यताम् ॥
शुद्धोदकस्नानं, चन्दनं पुष्पं धूपं
दीपं नैवेद्यं समर्प्य संप्रार्थ्य निर्माल्यं
विसृज्य विष्णुसूक्तैश्च अभिषिंचेत्
॥ आचमनीयम् ॥
अथ वस्त्रम् – तप्तकांचनसंकाशं पीतांबरमिदं हरे,
संगृहाण जगन्नाथ रामचन्द्र नमो౽स्तु ते ॥
वस्त्रं समर्पयामि
अथ उपवीतम् – श्रीरामाच्युत यज्ञेश श्रीधरानन्त राघव,
ब्रह्मसूत्रं सोत्तरीयं गृहाण रघुनंदन ॥
यज्ञोपवीतं समर्पयामि
अथ गंधम् – कुंकुमागरु कस्तूरी कर्पूरं चंदनं तथा,
तुभ्यं दास्यामि राजेन्द्र श्रीराम स्वीकुरु प्रभो ॥
गंधान् समर्पयामि
अथ अक्षतान् – अक्षताश्च सुरश्रेष्ठ कुंकमाक्ता: सुशोभिता:
मया निवेदिता भक्त्या: गृहाण परमेश्वर ॥
अलंकारार्थे अक्षतान् समर्पयामि
अथ पुष्पम् – तुलसी कुंद–मन्दार–जातिपुन्नाग–चम्पकैः,
कदंब–करवीरैश्च कुसुमैः शतपत्रकैः ॥
नीलाम्बुजैः बिल्वपत्रैश्चंपकै राघवं विभुं,
पूजयिष्याम्यहं भक्त्या संगृहाण जनार्दन ॥
तुलसी–कुंद–मन्दार–पापजाताम्बुजैर्युतां,
वनमालां प्रदास्यामि गृहाण जगदीश्वर ॥
पुष्पपत्राणि समर्पयामि
अथांग पूजा –
श्रीरामचन्द्राय नमः – पादौ पूजयामि
राजीवलोचनाय नमः – गुल्फौ पूजयामि
रावणांतकाय नमः – जानुनी पूजयामि
वाचस्पतये नमः – ऊरू पूजयामि
विश्वरूपाय नमः – जंघे पूजयामि
लक्ष्मणाग्रजाय नमः – कटिं पूजयामि
विश्वमूर्तये नमः – गुह्यं पूजयामि
विश्वामित्रप्रियाय नमः – नाभिं पूजयामि
परमात्मने नमः – हृदयं पूजयामि
श्रीकंठाय नमः – कंठं पूजयामि
सर्वास्त्रधारिणे नमः – बाहू पूजयामि
रघूद्वहाय नमः – मुखं पूजयामि
पद्मनाभाय नमः – जिह्वां पूजयामि
दामोदराय नमः – दन्तान् पूजयामि
सीतापतये नमः – ललाटं पूजयामि
ज्ञानगम्याय नमः – शिरः पूजयामि
सर्वात्मने नमः – सर्वाण्यंगानि पूजयामि ॥
अत्र शक्तौ सत्यां सहस्रतुलसीसमर्पणं, अष्टोत्तरशत–तुलसीसमर्पणं वा कार्यम् ॥
अथ रामाष्टोत्तरशतनामावळि
ॐ श्रीरामाय नमः
ॐ रामभद्राय नमः
ॐ रामचंद्राय नमः
ॐ शाश्वताय नमः
ॐ राजीवलोचनाय नमः
ॐ श्रीमते नमः
ॐ राजेंद्राय नमः
ॐ रघुपुंगवाय नमः
ॐ जानकीवल्लभाय नमः
ॐ जैत्राय नमः १०।
ॐ जितामित्राय नमः
ॐ जनार्दनाय नमः
ॐ विश्वामित्रप्रियाय नमः
ॐ दांताय नमः
ॐ शरणत्राणतत्पराय नमः
ॐ वालिप्रमथनाय नमः
ॐ वाग्मिने नमः
ॐ सत्यवाचे नमः
ॐ सत्यविक्रमाय नमः
ॐ सत्यव्रताय नमः २०
ॐ व्रतधराय नमः
ॐ सदाहनुमदाश्रिताय नमः
ॐ कौसलेयाय नमः
ॐ खरध्वंसिने नमः
ॐ विराधवधपंडिताय नमः
ॐ विभीषणपरित्रात्रे नमः
ॐ हरकोदंडखंडनाय नमः
ॐ सप्ततालप्रभेत्रे नमः
ॐ दशग्रीवशिरोहराय नमः
ॐ जामदग्न्यमहादर्पदलनाय नमः ३०
ॐ ताटकांतकाय नमः
ॐ वेदांतसाराय नमः
ॐ वेदात्मने नमः
ॐ भवरोगस्य भेषजाय नमः
ॐ दूषणत्रिशिरोहंत्रे नमः
ॐ त्रिमूर्तये नमः
ॐ त्रिगुणात्मकाय नमः
ॐ त्रिविक्रमाय नमः
ॐ त्रिलोकात्मने नमः
ॐ पुण्यचारित्रकीर्तनाय नमः ४०
ॐ त्रिलोकरक्षकाय नमः
ॐ धन्विने नमः
ॐ दंडकारण्यवर्तनाय नमः
ॐ अहल्याशापविमोचनाय नमः
ॐ पितृभक्ताय नमः
ॐ वरप्रदाय नमः
ॐ जितेंद्रियाय नमः
ॐ जितक्रोधाय नमः
ॐ जितमित्राय नमः
ॐ जगद्गुरवे नमः ५०
ॐ ऋक्षवानरसंघातिने नमः
ॐ चित्रकूटसमाश्रयाय नमः
ॐ जयंतत्राणवरदाय नमः
ॐ सुमित्रापुत्रसेविताय नमः
ॐ सर्वदेवादिदेवाय नमः
ॐ मृतवानरजीवनाय नमः
ॐ मायामारीचहंत्रे नमः
ॐ महादेवाय नमः
ॐ महाभुजाय नमः
ॐ सर्वदेवस्तुताय नमः ६०
ॐ सौम्याय नमः
ॐ ब्रह्मण्याय नमः
ॐ मुनिसंस्तुताय नमः
ॐ महायोगिने नमः
ॐ महोदराय नमः
ॐ सुग्रीवेप्सितराज्यदाय नमः
ॐ सर्वपुण्याधिकफलाय नमः
ॐ स्मृतसर्वौघनाशनाय नमः
ॐ आदिपुरुषाय नमः
ॐ परमपुरुषाय नमः ७०
ॐ महापुरुषाय नमः
ॐ पुण्योदयाय नमः
ॐ दयासाराय नमः
ॐ पुराणपुरुषोत्तमाय नमः
ॐ स्मितवक्त्राय नमः
ॐ मितभाषिणे नमः
ॐ पूर्वभाषिणे नमः
ॐ राघवाय नमः
ॐ अनंतगुणगंभीराय नमः
ॐ धीरोदात्तगुणोत्तमाय नमः ८०
ॐ मायामानुषचारित्राय नमः
ॐ महादेवादिपूजिताय नमः
ॐ सेतुकृते नमः
ॐ जितवाराशये नमः
ॐ सर्वतीर्थमयाय नमः
ॐ हरये नमः
ॐ श्यामांगाय नमः
ॐ सुंदराय नमः
ॐ शूराय नमः
ॐ पीतवाससे नमः ९०
ॐ धनुर्धराय नमः
ॐ सर्वयज्ञाधिपाय नमः
ॐ यज्विने नमः
ॐ जरामरणवर्जिताय नमः
ॐ शिवलिंगप्रतिष्ठात्रे नमः
ॐ सर्वापगुणवर्जिताय नमः
ॐ परमात्मने नमः
ॐ परब्रह्मणे नमः
ॐ सच्चिदानंदविग्रहाय नमः
ॐ परंज्योतिषे नमः १००
ॐ परंधाम्ने नमः
ॐ पराकाशाय नमः
ॐ परात्पराय नमः
ॐ परेशाय नमः
ॐ पारगाय नमः
ॐ पाराय नमः
ॐ सर्वदेवात्मकाय नमः
ॐ परस्मै नमः १०८
इति श्रीरामाष्टोत्तरशतनामावलिस्समाप्ता
नानाविध परिमळ पत्रपुष्पाणि समर्पयामि ॥
अथ धूपम् – वनस्पतिरसोद्भूतो गंधाढ्यो गंधउत्तमः,
रामचन्द्र महीपाल धूपो౽यं प्रतिगृह्यताम् ॥
धूपं समर्पयामि
अथ दीपम् – ज्योतिषां पतये तुभ्यं नमो रामाय वेधसे,
गृहाण दीपकं चैव त्रैलोक्यतिमिरापहम् ॥
दीपं समर्पयामि
अथ नैवेद्यम् – इदं दिव्यान्नममृतं रसैः षड्भिः समन्वितं,
लेह्यं पेयं च नैवेद्यं सीतेश प्रतिगृह्यताम् ॥
नैवेद्यं समर्पयामि
मध्ये मध्ये पानीयं समर्पयामि, उत्तरापो౽शनं समर्पयामि, हस्तप्रक्षाळनं, मुख–प्रक्षाळनं, पादप्रक्षाळनं च समर्पयामि ॥ करोद्वर्तनार्थे इदं चन्दनम् ॥
अथ तांबूलम् – नागवल्लीदळैर्युक्तं पूगीफलसमन्वितं,
ताम्बूलं गृह्यतां राम कर्पूरादिसमन्वितम् ॥
ताम्बूलं समर्पयामि
अथ नीराजनम् – मंगलार्थं महीपाल नीराजनमिनं हरे,
संगृहाण जगन्नाथ रामचन्द्र नमो౽स्तु ते ॥
नीराजनं समर्पयामि
अथ मन्त्रपुष्पम् – नमो देवाधिदेवाय रघुनाथाय शार्ङ्गिणे,
चिन्मयानन्तरूपाय सीतायाः पतये नमः ॥
मन्त्रपुष्पं समर्पयामि
यानि कानि च पापानि जन्मांतरकृतानि च
तानि सर्वाणि नश्यंति प्रदक्षिण पदे पदे ॥ ॥
प्रदक्षिण नमस्कारः समर्पयामि
पापोहं पाप कर्माहं पापात्मा पाप संभवः
त्राहि मां कृपया देव शरणागत वत्सल ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम
तस्माद् कारुण्य भावेन रक्ष रक्ष जनार्दन ॥
नृत्यैः गीतैश्च वाद्यैन पुराणपठनादिभिः,
पूजोपचारैः अखिलैः संतुष्टो भव राघव ॥
समस्तराजोपचारार्थे अक्षतान् समर्पयामि
अशोक कुसुमैर्युक्तं रामायार्घ्यं समर्पयेत् –
दशानन वधार्थाय धर्मसंस्थापनाय च,
राक्षसानां वधार्थाय दैत्यानां निधनाय च,
परित्राणाय साधूनां जातो रामः स्वयं हरिः,
गृहाणार्घ्यं मया दत्तं भातृभिः सहितो౽नघ ॥
श्री रामचन्द्रय साङ्गाय सपरिवाराय इदमर्घ्यं समर्पयामि ॥
यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु
न्यूनं संपूर्णतां याति सद्यो वंदे तमच्युतम् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥
अनेन यथाज्ञानेन कृतपूर्वोत्तराराधनेन भगवान् श्री रामचन्द्रः प्रीयताम् ॥
अथ उद्वासनम् – ॐ यज्ञेन यज्ञ मयजंत देवाः तानि धर्माणि, प्रधमान्यासन्
तेह नाकं महिमानस्सचंते यत्र पूर्वे साध्या स्संति देवाः
इति श्री रामनवम्यां श्री रामनवमि पूजा समाप्ता